This page has not been fully proofread.

चतुर्थः सर्गः ।
 
चपला कडारचिकुरोत्करा जव-
द्रुतपातितद्रुमविकीर्णपद्धतिः ॥ १६ ॥
 
रदनान्तरेषु चिरलग्नजाङ्गल-
ग्रहणेच्छया विदधती विलोलनम् ।
रसनाञ्चलेन मुहुरास्यगह्वरे
 
विकटाट्टहासमुचि विस्रगन्धिनी ॥ १७ ॥
 
अथ राघवोऽध्वनि निरीक्ष्य राक्षसीं
 
प्रजिहीर्षयोद्यतभुजाप्रमायतीम् ।
 
वहता शरेण यमदण्डचण्डतां
 
जगदापदा सह निनाय तां क्षयम् ॥ १८ ॥
 
रघुनन्दनः समतनोन्निशाचरी-
कदनं प्रयासलवमन्तरेण यत् ।
समशिश्रियत् सपदि पूर्वरङ्गतां
 
क्षणदाचरोन्मथननाटकस्य तत् ॥ १९ ॥
 
अथ ताटकानिधनहर्षितान्मुने-
रधिगम्य तावखिलमन्त्रमण्डलम् ।
रघुनन्दनावभवतां दुरासदौ
 
शिखिभास्करौ प्रचुरतेजसाविव ॥ २० ॥
 
अभजन्त ते तदनु वामनाश्रमं
 
श्रमहारिशाखितलवर्तितापसम् ।
कुशवल्कलाजिनविराजितोटज़-
प्रकरं प्रशान्ततरसत्वसङ्कुलम् ॥ २१ ॥