This page has not been fully proofread.


 
जानकीपरिणये
 
रजनीचरी वसति काचित्र तां
 
जहि सायकेन निशितेन ताटकाम् ।
रघुवंशरत्न ! भवतामनामयौ
 
विषयौ करूशमलदाभिधाविमौ ॥ ११ ॥
 
इति वाचमूचिषि तपस्विनां बरे
धनुराततज्यमतनिष्ट तत्क्षणात् ।
हरितां मुखानि मुखराणि शिञ्जिनी-
जनितैश्चकार च स भैरवै रवैः ॥ १२ ॥
 
श्र
 
धनुषः स्वनं रघुपतेर्घनाघन-
ध्वनिगर्वचर्वणचणं निशम्य सा ।
 
कलुषा रुषा परुषभाषणापतत्
 
पुरुषादिनी विषमवेषभीषणा ॥ १३ ॥
 
दधतीभचर्मपरिधानमायतं
 
स्तनमण्डलार्पित कपालमालिका ।
 
नररक्तचन्दनरसेन रूषिता
 
शवभस्मकल्पित कपोलमण्डना ॥ १४ ॥
 
प्रलयान्धकारपटलैरिवोद्गतै-
र्भुवनत्रयीदुरितसञ्चयैरिव ।
 
अयशोभरैरिव कुलस्य रक्षसां
 
द्रुहिणेन मेचकरुचिर्विनिर्मिता ॥ १५ ॥
 
ज्वलदग्निकुण्डनयना विशङ्कट-
भ्रुकुटीविटङ्कितभयङ्करानना ।