This page has not been fully proofread.

चतुर्थः सर्गः ।
 
सरयू तटे विततयागकर्मणां
तपनान्ववायधरणीभुजाममी ।
अधिवेदि यूपकुलमालुलोकिरे
पुलकाङ्कुरौघमिव हर्षजं भुवः ॥ ६ ॥
 
विषयेषु वा गिरिषु वा नदीषु वा
 
पथि यद्यदक्षिसरणीमगाहत ।
विनयेन तत्तदभिधामपृच्छतां
 
मुनिमात्मजौ नरपतेः कुतूहलात् ॥ ७ ॥
 
सरसैः फलैः क्षितिरुहा विहङ्गमाः
 
कलनिस्वनैः कुसुमसञ्चयैर्लताः ।
 
हरिणीगणाश्च तरलैर्विलोकितैः
 
समपूजयन् सपदि राजनन्दनौ ॥ ८ ॥
 
तरसा तमाश्रमममी प्रपेदिरे
 
हरकोपदग्धवपुषो मनोभुवः ।
 
वहता परागचयमङ्गभस्मनां
 
मरुता विमोहितमृगद्विजत्रजम् ॥ ९ ॥
 
अयमाश्रमः पशुपतेस्तदक्षिभू
 
शिखिदग्धमङ्गमिह पुष्पधन्वनः ।
अपतत् तदाप्रभृति दिवसौ पुनः
 
प्रथतेतरां जनपदोऽङ्गसंज्ञया ॥ १० ॥
 
20
 
AJ