This page has not been fully proofread.

अथ चतुर्थः सर्गः ।
 
पुरमुच्छ्रितध्वजमुदतोरणं
कदलीतरुक्रमुकषण्डमण्डितम् ।
जलसिक्तमुक्तकुसुमप्रतोलिकं
तदभून्नरेन्द्रसुतयोर्विनिर्गमे ॥ १ ॥
 
अभिवाद्य मातृजनमश्रुशीकरै-
रहिमैस्तदक्षिगलितैः समुक्षितौ ।
 
पितरं प्रणम्य च पुरोधसा समं
सविधं मुनेरभजतां क्षणेन तौ ॥ २ ॥
 
अथ रामलक्ष्मणसमेतपार्श्वभू-
र्निरगान्नरेन्द्र भवनात् तपोधनः ।
सविधे सुरासुरपुरोधसौ दधत्
 
प्रथमाचलादिव तुषारदीधितिः ॥ ३ ॥
 
समवाकिरन् सपदि लाजसञ्चयैः
 
पुरयोषितः क्षितिपतेः कुमारकौ ।
 
कुसुमैर्वनेषु चिरिबिल्वशाखिका
 
मधुमाधवाविव समुज्झितैर्निजैः ॥ ४ ॥
 
सरयूजलाचमननिर्मलात्मने
 
रघुनन्दनाय सकनीयसे मुनिः ।
अदिशद् बलामतिबलां च विद्ययो-
रनुभावतः स न तयोः कृमं ययौ ॥ ५ ॥
 
सः सकनीयान् रामः ।