This page has not been fully proofread.

जानकीपरिणये
 
अरुन्धतीजानिरुवाच मानसीं
 
व्यथां विधून्वन्नवनीबिडौजसः ॥ ६० ॥
 
कुले मनोरश्रुतपूर्वमर्थिभि
 
वीति नास्तीति पदं कथं भवान् ।
ननु प्रतिष्ठा भुवनेषु विश्रुता
 
वदान्यतोषज्ञभमुप्य भूपते ! ॥ ६१ ॥
 
महीपते ! नूतनवेधसे विना
 
विचारलेशं तनयं त्वमर्पय ।
 
अयं क्षमो राक्षसनिग्रहे स्वयं
 
तथापि भाग्याद् भवतः स चागतः ॥ ६२ ॥
 
त्रिशङ्कुसंस्थापनमातनोज्जग-
त्रयं विनिर्मातुमिवायमादितः ।
विधूय च क्षात्रमसौ तपश्चयैः
 
समासदद् ब्रह्मऋषित्वमञ्जसा ॥ ६३ ॥
पुरा मदीयैस्तनयैः सहात्मनः
 
सुताननेनाकलितोऽपि निग्रहः ।
कृतोऽमुना किञ्च तथा त्रिशङ्कुना
 
समं शुनः शेफमनुग्रहोऽस्पृशत् ॥ ६४ ॥
इत्थं वसिष्ठवचनैरपनीतशोक-
भूमा प्रसन्नहृदयः कुशिकात्मजाय ।
रामं धनुर्धरमदान्मदनाभिरामं
 
राजा गृहीतधनुषा सह लक्ष्मणेन ॥ ६५ ॥