This page has not been fully proofread.

तृतीयः सर्गः ।
अशिक्षितास्त्रः सकलास्त्रकोविदै-
रपेतमायः कपटाहवप्रियैः ।
अवाहिनीको ध्वजिनीयुतैः कथं
निशाचरैर्युद्धमसौ करिष्यति ॥ ५५ ॥
 
न दीयते वत्स इति त्वदग्रतो
 
बिभेमि वक्तुं तदये मुनीन्द्र ! मे ।
 
स्वयं विदित्वाशयमत्र दारके
 
दयस्व लब्धे विविधैर्वतैर्मया ॥ ५६ ॥
 
इतीरिते भूतलशीतलत्विवा
 
तथा स जज्वाल तपोधनः क्रुधा ।
 
भयेन मेने तमिमं यथा जनो
 
जगद् दिधक्षु प्रलयाशुशुक्षणिम् ॥ ५७ ॥
 
चचाल भूमिर्जलधिः प्रचुक्षुभे
 
शिखी न जज्वाल ववौ न मारुतः ।
 
प्रपेदिरे त्रासभरं सुधान्धस-
स्तपोधने क्रोधवशं गते सति ॥ ५८ ॥
 
अथाब्रवीदग्रसरस्तपस्विना-
महं गमिष्यामि पुनर्यथागतम् ।
 
चिरं भवाञ्जीवतु भूपते ! न चे-
en
 
न्मृषा प्रतिज्ञां भुवि कः करिष्यति ॥ ५९ ॥
 
उदीरितायामिति वाचि तत्क्षणा-
दुमर्षिणा गाढतरं महर्षिणा ।
 
३५