This page has not been fully proofread.

३४
 
जानकीपरिणये
 
मुने ! निकेतं परिपूतमद्य मे
 
जनिर्मदीया च फलान्विताजनि ॥ ४९ ॥
 
त्वया यदुद्दिश्य मुनीन्द्र ! भूरियं
पदारविन्दार्पणमानिताधुना ।
 
तदर्पयिष्यामि रयादसंशयं
 
विहाय शङ्कामभिधेहि वाञ्छितम् ॥ ५० ॥
 
इति प्रहर्षादनुकूलवादिनं
 
धराधिनाथं मुनिरभ्यभाषत ।
भवान् हरिश्चन्द्रनृपश्च वीक्षितौ
 
मनोः कुले द्वाविह सत्यसङ्गरौ ॥ ५१ ॥
 
अहं विधित्सुः सवनं महीपते !
 
तदन्तरायप्रशमाय पूर्वजम् ।
 
कुमारमानेतुमिहागतोऽस्मि ते
 
सहायवन्तं धनुषा प्रयच्छ तम् ॥ ५२ ॥
 
सुबाहुसुन्दप्रभवौ दुरासदौ
 
निशाचरावध्वरविघ्नकारिणौ ।
 
निहन्तुमीष्टे सुत एव ते रणे
 
हिमान्धकाराविव चण्डदीधितिः ॥ ५३ ॥
 
इतीरयित्वा विरतं मुनीश्वरं
 
गतप्रहर्षः पतिरब्रवीद् भुवः ।
 
क्व मे कुमार: सुकुमारविग्रहो
 
निशाचराः कर्कशमूर्तयः क्व वा ॥ ५४ ॥