This page has not been fully proofread.

*
 
तृतीयः सर्गः 1
 
बहुश्रुतैः सज्जनसम्मतैः स तैः
सुतैश्चतुर्भिः शुशुभे महीपतिः ॥ ४४ ॥
 
उवास रामेण विना न लक्ष्मणः
 
क्षणं न चोवास स तं विना पुनः ।
 
वसेत् प्रसादो विधुमन्तरेण किं
 
विना प्रसादेन वसेद् विधुध किम ॥ ४५ ॥
 
परस्परं तौ भरतश्च लक्ष्मणा-
नुजश्व सौहार्दमुभावपुष्यताम् ।
 
यथा शचीवल्लभकैटभ द्विपौ
 
यथाश्विनौ मारुतपात्रको यथा ॥ ४६ ॥
 
अथासदत् तं क्षितिपाकशासनं
 
#विकल्पपङ्केरुहसम्भवो मुनिः ।
 
अभूत् त्रिशङ्कोस्त्रिदिवाधिरोहणे
 
यदीयवाणी प्रगुणाधिरोहणी ॥ ४७ ॥
 
अनर्घ्यमर्ध्यादिभिरीश्वरः क्षिते-
स्तमर्चयित्वा विधिवत् तपोधनम् ।
 
प्रहृष्टचेताः कुशपूतविष्टरे
 
निविष्टमाचष्ट वसिष्ठसन्निधौ ॥ ४८ ॥
 
अनुग्रहोऽयं मयि दर्शितस्त्वया
 
ततः प्रतिष्ठां गतमद्य मत्कुलम् ।
 
विकल्पमा विश्वामित्र इत्यर्थः ।
 
·
 
AU