This page has not been fully proofread.

३२
 
जानकीपरिणये
 
विजहिरे वीथिषु बालकैः समं
नृपालबालाः क्षितिरेणुरूषिताः ।
वनीषु दीव्यत्कुसुमासु षट्पदाः
 
प्रसूनधूलीपरिधूसरा इव ॥ ३९ ॥
 
प्रणीतचौलः प्रचलच्छिखण्डकः
 
कुमारवर्गोऽक्षरवेदिकां गतः ।
 
लिपि समस्तां जगृहे न केवलं
 
धियो विलासैर्हदयं गुरोरपि ॥ ४० ॥
 
अथोपनीता विधिवत् पुरोधसा
 
धृतोपवीताजिनदण्ड मेखलाः ।
 
चकासति स्म प्रथमाश्रमस्य ते
 
यथावताराः क्षितिपालनन्दनाः ॥ ४१ ॥
 
वसिष्ठतो ब्रह्मविदां वरिष्ठत-
स्त्रयीं तदङ्गैः सममध्यगीषत ।
 
अनेहसाल्पेन च ते प्रपेदिरे
 
तथा समस्तासु कलासु कौशलम् ॥ ४२ ॥
 
सुधन्वनोऽस्त्राणि समुज्ज्वलानि ते
 
सुखादशिक्षन्त सुता महीक्षितः ।
प्रकाशितास्तैरभवन् दुरासदाः
 
प्रभाकरोखैरिव घर्मवासराः ॥ ४३ ॥
 
दृढव्रतैर्धर्मरतैर्यशस्विभि
 
र्दयालुभिर्दान परैर्विचक्षणैः ।