This page has not been fully proofread.

तृतीयः सर्गः ।
 
अघौघतूलावलिपावकार्चिषं
पुमर्थविश्राणनकल्पवल्लरीम् ॥ ३३ ॥
 
ततः सुतेषु त्रिषु वल्लभो भुवो
 
निनाय कञ्चिद् भरताभिधार्थताम् ।
 
तथेतरं लक्ष्मणशब्दवाच्यतां
 
0
 
परं च शत्रुघ्नपदाभिधेयताम् ॥ ३४ ॥
निपीय धात्रीवदनाद् विनिर्गतां
 
चिरेण गीतिं मणिमञ्चशायिनः ।
 
सुखं निददुः शिशवो मुहुर्मुहुः
 
सरोदनारम्भमुदञ्चितस्मितम् ॥ ३५ ॥
 
इयेन जान्वोः कनकाङ्गणे कर-
द्वयीसहायेन निरूटचक्रमाः ।
विजहिरे ते नरपालबालका-
स्तटे सुमेरोरिव सिंहशाबकाः ॥ ३६ ॥
वचांसि धात्रीकथितानि दारका
धरापतेरन्ववदञ्छुका इव ।
जनस्य सिञ्चन्त इव श्रुतीः सुधा-
रसेन वर्णैरनतिस्फुटोदितैः ॥ ३७ ॥
दृढं गृहीत्वा जननीकराङ्गुलीः
समर्पयन्ति स्म पदानि कानिचित् ।
शनैश्शनैरङ्गणमेदिनीषु ते
 
पदक्कणत्काञ्चनकिङ्किणीगणाः ॥ ३८ ॥