This page has not been fully proofread.

जानकीपरिणये
अनुष्ठिते ब्रह्मभुवा महर्षिणा
कृतप्रजाशर्मणि जातकर्मणि ।
 
विशेषतो राजसुता विरेजिरे
 
यथा सुधांशोः शरदागमे कराः ॥ २८ ॥
 
धरासुरेभ्यः प्रदिशन् धरापतिः
सुवर्णभूषाम्बररत्नसञ्चयान् ।
 
ससर्ज बह्वीरपवर्जनोदकैः
 
सखी: सरय्वा जितकल्पपादपः ॥ २९ ॥
 
त्रिहायनीद्रणदुघाः सतर्णकाः
 
प्रभुर्द्विजेभ्यः प्रदिदेश नैचिकीः ।
 
महोत्सवे तत्र भुवश्च भूयसीः
 
फलान्वितोच्चावचसस्यमालिनीः ॥ ३० ॥
 
धनैस्तदाशा वसुधासुधान्धसां
 
न केवलं पूरयति स्म भूपतिः ।
यशोभिराशा अपि निन्दितेन्दुभिः
शचीपतिप्रष्ठसुधान्धसामहो ॥ ३१ ॥
श्रुतेन यागेन ऋणाद् विमोचित -
विरादृषीणां मरुतां च पार्थिवः ।
ऋणात् पितॄणां च विसर्जितस्तदा
विराजते स्म प्रसवेन देववत् ॥ ३२ ॥
 
अथाभिधां राम इति क्षितीश्वर-
वकार सूनोः प्रथमस्य धर्मवित् ।