This page has not been fully proofread.

तृतीयः सर्गः ।
 
महोत्सवे तत्र वधूमुखेरितः
 
क्षणादुलूलुध्वनिरानशे दिवम् ॥ २२ ॥
 
निधाय रंहोभरमञ्जनोद्भवे
 
सुते समस्तं सुरकार्यसिद्धये ।
चचार सामोदमितस्ततः शनै-
ध्रुवं नभस्वानुदये जगत्पतेः ॥ २३ ॥
 
असौ यशश्चन्द्रिकयात्रजः शिशुः
 
क्षणेन नस्तापमपाकरिष्यति ।
भुजप्रतापोदितमाशरप्रभो-
रिति प्रसन्ना हरितोऽभवंस्तदा ॥ २४ ॥
 
जनाय पुत्रोदयशंसिने मुदा
 
तथा वसूनि प्रददौ धरापतिः ।
 
धनाधिनाथोऽपि तदर्थसम्पढ़े
 
यथानुवेलं स्पृहयेत विस्मितः ॥ २५ ॥
 
विशामधीशो विहितावगाहनः
 
सितांशुगौरं सिचयं नवं धत् ।
 
विभूषितश्चन्दनचर्चितः स्रजं
वहन् द्विजैः
 
सङ्कुलमाप मन्दिरम् ॥ २६ ॥
 
सुताननाम्भोजचतुष्टयीं मुहु-
र्ननन्द पश्यन्नवनीपुरन्दरः ।
 
विलोकयन् दानवसूदनो यथा
 
चतुर्मुखीं नाभिभुवः स्वयम्भुवः ॥ २७ ॥