This page has been fully proofread once and needs a second look.

२८
 
जानकीपरिणये
 
अजीजनद् वैजनने सुतं ततो

निरामनस्याश्वपतेः कुमारिका ।
 

त्रयीव धर्मेमं खनिभूरिवोज्ज्वलं
 
मणि

मणिं
दिगैन्द्रीव मयूखमालिनम् ॥ १७ ॥
 

 
शुभे मुहूर्ते सुषुवेऽथ मागधी
 

यमौ सुतौ विद्विषतां यमोपमौ ।

यथादितिर्वासवदानवद्विषौ
 

यथाश्विनी निर्जरसां चिकित्सकौ ॥ १८ ॥
 

 
तथोच्चकैर्मङ्गलसूचकः श्रुति-

प्रहर्षदोऽजृम्भत तूर्यनिस्वनः ।
 

नभस्तले निर्जरदुन्दुभिध्वनिं
 

यथा जनोऽमन्यत तत्प्रतिध्वनिम् ॥ १९ ॥
 

 
प्रहर्षतो वारविलासिनीजनाः
 

स्फुटं नटन्तो जननोत्सवे हरेः ।
 

सताण्डवा नूतननीरदोदये
 

शिखण्डिनीनामिव मण्डला बभुः ॥ २० ॥
 

 
प्रदक्षिणाकारशिखः प्रसन्नतां
 

प्रशान्तधूमौघतया प्रकाशयन् ।

मुखं सुराणां स्फुरति स्म तन्मुख
 
-
प्रसादमग्निः कथयन्निव स्वयम् ॥ २१ ॥
 

 
सुरैर्विमुक्ता सुरभूरुहोद्भव-
प्रसु

प्रसृ
नवृष्टिर्द्रुतमासदद् भुवम् ।