This page has not been fully proofread.

२८
 
जानकीपरिणये
 
अजीजनद् वैजनने सुतं ततो
निरामनस्याश्वपतेः कुमारिका ।
 
त्रयीव धर्मे खनिभूरिवोज्ज्वलं
 
मणि दिगैन्द्रीव मयूखमालिनम् ॥ १७ ॥
 
शुभे मुहूर्ते सुषुवेऽथ मागधी
 
यमौ सुतौ विद्विषतां यमोपमौ ।
यथादितिर्वासवदानवद्विषौ
 
यथाश्विनी निर्जरसां चिकित्सकौ ॥ १८ ॥
 
तथोच्चकैर्मङ्गलसूचकः श्रुति-
प्रहर्षदोऽजृम्भत तूर्यनिस्वनः ।
 
नभस्तले निर्जरदुन्दुभिध्वनिं
 
यथा जनोऽमन्यत तत्प्रतिध्वनिम् ॥ १९ ॥
 
प्रहर्षतो वारविलासिनीजनाः
 
स्फुटं नटन्तो जननोत्सवे हरेः ।
 
सताण्डवा नूतननीरदोदये
 
शिखण्डिनीनामिव मण्डला बभुः ॥ २० ॥
 
प्रदक्षिणाकारशिखः प्रसन्नतां
 
प्रशान्तधूमौघतया प्रकाशयन् ।
मुखं सुराणां स्फुरति स्म तन्मुख
 
प्रसादमग्निः कथयन्निव स्वयम् ॥ २१ ॥
 
सुरैर्विमुक्ता सुरभूरुहोद्भव-
प्रसुनवृष्टिद्रुतमासदद् भुवम् ।