This page has not been fully proofread.

तृतीयः सर्गः ।
बभौ स्थिता तत्र चिरात् प्रधाविनी
तमछटेवोपरि रोमछुरी ॥ ११ ॥
 
चकार कर्माणि यथाविधि क्रमाद्
 
विधानवित् पुंसवनादिकानि सः ।
प्रणीतसंस्कारतया विशेषतो
 
रराज गर्भश्च नरेन्द्रसुवः ॥ १२ ॥
 
अणोरणीयस्त्वमधत्त यत् पुरा
 
तदा महत्त्वं महतो बभार यत् ।
वधूदरे तत्र चिरस्थिते हरौ
 
ततोऽभिसंक्रान्तमवैमि तद् द्वयम् ॥ १३ ॥
 
विलम्बिनीमभ्रघटामिवाम्भसा
 
फलौघभारेण नतां लतामिव ।
 
ननन्द गर्भेण सगौरवेण तां
 
विराजितां वीक्ष्य विशामधीश्वरः ॥ १४ ॥
 
असूत तारेऽदितिदैवते सुतं
 
नरेन्द्रपत्नी प्रथमा सुखेन सा ।
 
तिथौ नवम्यां स्फुटमुच्चगेषु च
 
ग्रहेषु पञ्चस्वधिकर्किलग्नकम् ॥ १५ ॥
 
अरिष्टदीपास्तदनल्पवर्चसा
 
क्षणादभूवन्नभिभूततेजसः ।
 
तदन्वयाधीश्वरभानुरोचिषा
 
ग्रहा इवान्ये गगनाङ्गणस्थिताः ॥ १६ ॥
 
A