This page has not been fully proofread.

२६
 
जानकीपरिणये
 
तदक्षयं शोकहरं सुखावहं
मनोवचोगोचरतामनाश्रितम् ।
भवत्प्रसादान्मयि वस्तु वर्तते
 
किमर्थयेयान्यदनीशं विभो ! ॥ ६ ॥
 
इति ब्रुवाणामभिनन्द्य वळुभां
 
चुचुम्ब मृद्गन्धि तदीयमाननम् ।
तदुक्तिसारं स सुधीः पदे पदे
 
विनिस्सरन्तं तरसालिहन्निव ॥ ७ ॥
 
अपाङ्गमेवासितमब्जचक्षुषो
 
वतंसनीलोत्पलभावमानशे ।
 
श्रमोदबिन्दुत्कर एव हारतां
 
भृशालसायाः प्रतिकर्मकर्मणि ॥ ८ ॥
 
हरिर्विसस्मार वधूढरे वसन्
 
फणाधराधीश्वरभोगमायतम् ।
 
तपोधनानामपि पावनं मनो
 
वटद्रुमस्यापि च मञ्जुलं दलम् ॥ ९ ॥
 
क्रमेण पुष्टिः क्षितिपालसुध्रुव-
स्तथा प्रतीकै रखिलैः समाददे ।
 
अदृश्यतायाः प्रथमं निकेतनं
 
विलग्नमक्ष्णोर्विषयो यथा भवेत् ॥ १० ॥
 
वधूदरे गर्भभरात सगौरवे
 
गभीरतामुज्झति नाभिगरे ।