This page has not been fully proofread.

अथ तृतीयः सर्गः ।
अथावनीपालवधूषु दौहृद-
व्यथासमाश्लिष्टशरीरयष्टिषु ।
विशेषतः कोसलभूपजा बभौ
 
सितासु राकारजनीव रात्रिषु ॥ १ ॥
 
कुचद्वयेनासितचूचुकश्रिणा
 
स्फुरच्छरस्तम्बरुचा मुखेन च ।
 
नितम्बिनी स्निग्धतरेण चक्षुषा
 
विनाक्षरं व्याहरति स्म दौहृदम् ॥ २ ॥
 
तनोर्यदाहुः समवायिकारणं
 
भुवं ततो गर्भजुषो मधुद्विषः ।
नरेन्द्रभार्या वपुषः सिसृक्षया
 
मुदा मृदास्वादनमाचरद् ध्रुवम् ॥ ३ ॥
स्तनद्वयी भूपतिसुभ्रुवोऽसिता
 
मुखे बभौ श्रीदयिताय शैशवे
 
चिराय पातुं जतुमुद्रिता सुधा-
घटद्वयीव प्रहितादरात् सुरैः ॥ ४ ॥
 
प्रियां निजोत्सङ्गभुवो विभूषणं
 
विधाय पप्रच्छ तदीप्सितं मिथः ।
 
समुन्नमय्य त्रपया नतं मुखं
 
मुद्रा समाधाय च मेदिनीश्वरः ॥ ५ ॥