This page has not been fully proofread.

द्वितीयः सर्गः ।
 
नसंपचं नातनुते च वर्त्म
 
तस्य प्रसादं तपनोऽभिकाङ्क्षन् ॥ ४७ ॥
 
सुधान्धसस्तं विधुमाश्रयन्तं
 
सदा समग्र सविधे निरीक्ष्य ।
सेवागता वह्निमुखाः सतृष्णा-
स्तिष्ठन्ति लीढोभयसृक्कजिह्वाः ॥ ४८ ॥
 
बन्दीकृतानां सुरसुन्दरीणां
 
करस्फुरच्चामरमारुतेन ।
 
तदुष्णनिःश्वाससमेधितेन
 
स सेव्यते पञ्चशरज्वरातः ॥ ४९ ॥
 
दिगन्तदन्तावलदन्तकुन्त-
निरन्तरोद्धट्टननिष्ठुरेण ।
 
उरस्तटेन प्रधने करोति
 
स कुण्ठिताश्रीणि सुरायुधानि ॥ ५० ॥
 
इत्थं समस्तानभिभूय देवान्
 
निजप्रतापेन निशाचरेन्द्रः ।
 
उपेक्षितो व्याधिरिवैधमानः
 
पीडामजस्रं जगतां विधत्ते ॥ ५१ ॥
 
सबन्धुवर्ग जहि रावणं त्वं
 
सङ्ग्रामभूमौ शरधोरर्णाभिः
 
तपस्विहिंसाकलितादरं तं
 
दारान् परेषां प्रसभं हरन्तम् ॥ ५२ ॥
 
१९