This page has not been fully proofread.

जानकीपरिणये
 
तस्मादभूत् तस्य किलाप्प्रभुत्वं *
व्याकुर्वते तत् परथानभिज्ञाः ॥ ४२ ॥
 
तेनाददानेन समस्तमर्थ-
मकिञ्चनत्वं गमितः कुबेरः ।
 
सखानुरूपो भवति स्मरारे-
श्विराय भिक्षोर्हरिदम्बरस्य ॥ ४३ ॥
 
आमोदिताद् गन्धसमर्पणेन
 
गृह्णाति तस्मात् पवनोऽनुवेलम् ।
 
तदङ्गलनं सुरतान्तजात.
 
स्वेदाम्बुबिन्दुत्करभारहारम् ॥ ४४ ॥
 
उपास्यते भूमिसुरैः सदा यद्
 
धत्ते मुखत्वं दनुजद्विषा यत् ।
हविर्यदश्नाति च मन्त्रपूतं
 
तेजश्च तत् सम्प्रति सेवते तम् ॥ ४५ ॥
 
सेवां सदा मन्मथशासनस्य
 
कुर्वन् क्षयं नोज्झति शीतभानुः ।
 
उपासनं तस्य पुनर्वितन्वन्
 
क्षयं न जानाति कदापि चन्द्रः ॥ ४६ ॥
 
दुर्दर्शतां न श्रयते न तापं
 
तनोति न स्वेदकणान् विधत्ते ।
 

 
* अप्प्रभुत्वं जलप्रभुत्वम् अथचाशक्तत्वम् । अर्थान्तरे 'अनचि च ' (८.४.४७)
इति द्वित्वेन पकारद्वयोपपत्तिः ।