This page has not been fully proofread.

द्वितीयः सर्गः ।
 
त्वन्नाभिरूढं च तथारविन्द
 
विश्वस्य कर्तारमसूत देवस् ॥ ३७ ॥
 
इति स्तुतिं निर्जरसां निशम्य
 
पीताम्बरे प्रीतिभरं प्रपन्ने ।
 
आरेभिरे शंसितुमाशराणा-
मुपप्लवं ते रभसेन तस्मै ॥ ३८ ॥
 
लङ्कापुरे तिष्ठति निर्विशङ्को
 
रात्रिञ्चरो रावणनामधेयः ।
 
बर्हिर्मुखैरिन्द्रमुखैरजस्त्र-
मुपासितश्चण्डभुजप्रतापः ॥ ३९ ॥
 
उरस्तटे तस्य दृढे निपत्य
 
यदा विशीर्ण शतकोटिधाभूत् ।
 
वज्रं तदारभ्य पुरन्दरस्य
 
बिभर्ति नूनं शतकोटिसंज्ञाम् ॥ ४० ॥
 
तं सङ्गतः सङ्गररङ्गभूमौ
 
देवस्य सूनुर्दिवसेश्वरस्य ।
 
अकीर्तिपङ्केन यदानुलिप्त-
स्तदादि तं काल इतीरयन्ति ॥ ४१ ॥
 
स्थातुं तद्ग्रे समराङ्गणेषु
 
प्रभुर्न यस्माद्भवत् प्रचेताः ।