This page has not been fully proofread.

द्वितीयः सर्गः ।
वेषं स्वयं पौरुषमुहद्भि
 
निजायुधानां निवः समन्तात् ।
 
उपस्थितं साञ्जलिभिः पठन्हि-
दैतेयराजीविजयापदानम् ॥ २७ ॥
 
श्रिया समेतं नवकञ्जनाभ
 
दयालसन्मानसमञ्जनाभम् ।
 
गुणाकरं पत्ररथेन्शयानं
 
J
 
फणाधराणां प्रवरे शयानम् ॥ २८ ॥
 
यावत् प्रपेदे त्रिदशावली सा
 
( एकादशभिः कुलकम् )
 
तदर्शनोदित्वरलज्जयेव
 
क्षीरोदधिं तावदवाप बोधम् ।
 
द्राङ् निद्रया कैटभजिद् विमुक्तः ॥ २९ ॥
 
अथामरास्तं प्रणिय देवं
 
सुराहितोज्जासनजागरूकम् ।
 
प्राचीनवाचामपि गोचरत्व-
मननुवानं विभुमस्तुवंस्ते ॥ ३० ॥
 
नमो जगन्निर्मितिकर्मठाय
 
नमो जगद्रक्षणदीक्षिताय
नमो जगन्निग्रहसाग्रहाय
 
नमस्त्रिधाकल्पितमूर्तये ते ॥ ३१ ॥
 
जगन्ति सर्वाणि जगन्निवास !
 
कर्तुं च धर्तुं च तथापहर्तुम् ।