This page has not been fully proofread.

जानकीपरिणये
 
श्रीवत्ससंज्ञं दधतं विशाले
 
वक्षःस्थले लक्ष्म विराजमानम् ॥ २१ ॥
 
नाभीसरोजानिशबोधनार्थं
 
बालातपेनेव समागतेम !
 
पीताम्बरेणाश्चितमम्रनोल
 
सन्ध्याघनाश्लिष्टमेिवाञ्जनाद्रिम् ॥ २२ ॥
 
सदाधिकण्ठस्थलि वैजयन्तीं
 
समार्दवां श्यामरुचि वहन्तम् ।
 
रागेण कण्ठग्रहणं वितन्वद्
 
भुवो भुजद्वन्द्वमिव प्रियायाः ॥ २३ ॥
 
नाभीसरोजेऽद्भुतमुद्दहन्तं
 
चतुर्मुखं कञ्चन मञ्चलीकम् ।
 
झङ्कारिणं निष्कपटैर्वचोभिः
 
कुन्देन्दुगौरभ्रमरीसमेतम् ॥ २४ ॥
 
लक्ष्मीभुवोर्वल्लभयोरजस्र -
 
मालिङ्गनानि क्रममन्तरेण ।
 
विधातुमिच्छन्तमिव स्फुरन्तं
 
भुजैश्चतुर्भिधृतरत्नभूषैः ॥ २५ ॥
 
भोगीन्द्रफूत्कारमरुद्वितीर्णै-
नभिप्ररूढाब्जभवैः परागैः ।
 
पिशङ्गितेनेव विहङ्गराजा
 
संसेवितं साञ्जलिना पुरस्तात् ॥ २६ ॥