This page has not been fully proofread.

द्वितीयः सर्गः ।
 
वर्षेण तेषां जनयन्ति धारा-
धराः सदा क्षीरमर्याः स्रवन्तीः ॥ १६ ॥
 
तुङ्गाः प्रकामं धरणीधरेन्द्रा-
स्तेभ्यः पुनस्तुङ्गतरास्तरङ्गाः ।
तिमिङ्गिलास्तुङ्गतमाश्च तेभ्यो
 
यत्र स्थितिं सन्ततमाश्रयन्ते ॥ १७ ॥
 
तत्रामरास्तामरसालयायाः
 
कान्तं निवासं जगतामपश्यन् ।
 
तल्पे पयःसिन्धुतरङ्गकल्पे
 
* वातूलतूलैर्भरिते शयानम् ॥ १८ ॥
फणीन्द्रनिःश्वासमरुत्तरङ्गैः
प्रतिक्षणक्षिप्तकुचोत्तरीयाम् ।
 
वक्षःस्थलस्थां कमलां कटाक्ष-
परम्पराणां पदमाधानम् ॥ १९ ॥
उरस्तटे कौस्तुभनामधेय-
मम्भोविवर्त मणिमुद्दहन्तम् ।
अधीतकाठिन्यमिवाब्धिकन्या-
F
 
पयोधराभ्यां परिरम्भणेषु ॥ २० ॥
 
निविष्टमारान्निजवैजयन्ती-
सौरभ्यलोभादिव चञ्चलीकम् ।
 
* वातूले; बातसमूहैरेन तूलैः भरिते पूरिते। तल्पभूतस्य शेषस्य बाताशनत्वादेव-
मुक्तिः ।