This page has not been fully proofread.

१२
 
जानकीपरिणये
 
विक्षुण्णपक्षा मकरार्भकाणां
वालावलीनां वलनेन यत्र ।
 
जम्भारिदम्भोलिविलूनपक्षान्
 
धराधरेन्द्रा बहुमन्वतेऽद्रीन् ॥ ११ ॥
 
कल्लोलमाली स्फटिकावदातो
 
वहञ्छिखा बाडबशुष्मणो यः ।
सर्पाश्चितस्यानुकरोति शम्भो
 
र्भस्माङ्गरागस्य जटाधरस्य ॥ १२ ॥
 
निर्मोकनिर्मोचनमाचरन्ती
 
तनुं फणीन्द्रस्य विडम्बयन्ती ।
 
विराजते यत्र तरङ्गरेखा
 
फेनच्छदां शुभ्ररुचिं क्षिपन्ती ॥ १३ ॥
 
क्षीराणि यस्मिन् सुलभानि तेभ्यः
 
सम्पादयन्तो दधिसर्पिषी च ।
पार्श्वये यस्य जना वसन्तो
 
गाः पञ्चगव्यार्थमवन्त्यजस्रम् ॥ १४ ॥
 
गावो वितीर्णा भुवि यैद्विजेभ्यः
 
क्षीराणि दत्तानि च यैः शिशुभ्यः ।
 
यैस्तर्पिता: पायसतो द्विजेन्द्रा-
स्तेषां भवेद् यत्सविधे निवासः ॥ १५ ॥
 
आदाय दुग्धानि यतो यदीय-
पार्श्वद्वयद्वीपमहीधरेषु ।