This page has not been fully proofread.

द्वितीयः सर्गः ।
 
त्रिविष्टपं यत्र खलु स्थितानां
शक्यं तरङ्गैरधिरोदुचैः ।
आवर्तपालीसुषिरैरगाधैः
 
शक्यं प्रवेष्टुं फणिविष्टपं च ॥ ६ ॥
 
येनानिशं सन्निहितादवीत
 
सायुज्यविश्राणनमच्युतात् किम् ।
 
आसाद्य यं मुक्तजलस्वरूपाः
 
क्षीरात्मतां यत् सरितो भजन्ते ॥ ७ ॥
 
नेता नदीनां ननु बाडबेन
 
कुक्षावकारीति पुराणवाणी ।
 
शुचिं ज्वलन्तं जठरे वितन्वन्
 
विराजते + बाडवनन्हं यः ॥ ८ ॥
 
मुक्ताफलैः पाकविदीर्णशुक्ति
 
मुक्तैस्तरङ्गोत्करशीकरैश्च ।
 
समुत्थितैः सत्वरमन्तरिक्षं
 
तनोति यस्तारकतं दिवापि ॥ ९ ॥
 
कर्पूरधूलीशरदभ्रशुभ्रे
 
शङ्खावली यत्र भृशं सवर्णा ।
आलक्ष्यतामञ्चति सान्द्रसान्द्रे
 
चन्द्रातपे तारकमण्डलीव ॥ १० ॥
 
● ब्राह्मणेनागस्त्यनाम्ना
 
↑ वाइवं वाडनामिं ब्राह्मणं च ।
 
११