This page has not been fully proofread.

अथ द्वितीयः सर्गः ।
अथ प्रपेदे त्रिदिवालयानां
क्षीरोदधिर्लोचनगोचरत्यम् ।
प्रत्युत्थितं क्षिप्रमिवादवान-
स्तेषाममन्दोच्चलितैस्तरङ्गैः ॥ १ ॥
 
COM
 
कोणे क्वचिन्निर्मथितेऽवि लक्ष्मी-
सुधासुधांशुप्रमुखैर्बभूवे ।
कृत्स्ने पुनर्यत्र सतः पदार्थान्
 
को वा विशिष्टानवगन्तुमीष्टे ॥ २ ॥
 
मणीषु काचिद् रमणीपु काचि-
लव्धात्र भूयोऽपि तथाविधाः स्युः ।
इतीव ता हर्तुमना यदन्त-
COR
 
जागर्ति देवो न करोति निद्राम् ॥ ३ ॥
 
कलत्रभावं कमलेक्षणस्य
 
जीवातुभूयं विबुधावलीनां
 
चूडामणित्वं पुरशासनस्य ।
 
बिभ्रत्सहो यत्पयसां विवर्ताः ॥ ४ ॥
 
ऐरावतोच्चैःश्रवसौ सुधां च
 
कल्पद्रुमानप्सरसोऽखिलाश्च ।
 
मुदा ददानेन दधाति येन
 
व्युत्पादितं स्वर्पतिरिन्द्रशब्दम् ॥ ५ ॥