This page has not been fully proofread.

सर्गः ।
 
निर्वर्तिते ऋतौ तस्मिन्नित्थमुर्वीशतकतोः ।
इष्टिं विधातुं पुत्रीयामुपचक्र मिरे द्विजाः ॥ ८० ॥
विधिवत् क्रियमाणायामिष्टौ तत्र महर्षिभिः ।
रावणोपलता देवा भेजुः शरणमच्युतम् ॥ ८१ ॥
उन्मीलत्कैतकोद्यत्परिमलमिलितैर्नालिकेरट्टुमाली-
च्छायाजस्रप्रचारोपचितजडिमभिर्मन्थरैर्गन्धवाहैः ।
शान्ताध्वश्रान्तयः श्रीसहचरमचिराद् वीक्षितुं काङ्क्षमाणाः
क्षीराम्भोराशितीरं विविधमणिगणैर्भासुरं भेजिरे ते ॥ ८२ ॥
 
प्रथमः
 
a
 
यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः
 
ख्यातं चक्रकविं सतीसमुद्यैः संमानिताम्बाभिधा ।
सर्गस्तस्य कृतौ निरर्गलगिरो भव्ये गुणालकिया-
सान्द्रे श्रीमति जानकीपरिणये हृद्योऽयमाद्योऽजनि ॥ ८३ ॥
इति जानकीपरिणये
 
प्रथमः सर्गः