This page has not been fully proofread.

जानकीपरिणये
 
मखधूमो हविर्गन्धी पावनः पवनेरितः ।
विचित्रमात्मसंसर्गाद् विदधे निर्मलान् जनान् ॥ ७० ॥
मन्त्रपूतं हुतवहे धाय्याकृतसमिन्धने ।
ऋत्विजस्तत्यजुर्हव्यद्रव्यमुद्दिश्य देवताम् ॥ ७१ ॥
हव्यैः सुरास्तथा स्फीतास्तद्वारा: पुनरागतान् ।
नानुक्तैश्चित्रवचनैः श्रद्धास्यन्ति यथा पतीन् ॥ ७२ ॥
ब्रह्मा तस्मिन् मखे बिभ्रच्चतुराननतामपि ।
श्रुती श्चतस्रोऽधिमुखं यद् बभार तदद्भुतम् ॥ ७३ ॥
होता ऋतुवरे तस्मिन्नुच्चचारोच्चकैर्ऋचः ।
यजुर्वेदविदध्वर्युर्जुहाव ज्वलने हविः ॥ ७४ ॥
उद्गाता सप्तधा भिन्नं साम सामविशारदः ।
उज्जगौ ज्ञापयन्नुच्चैरङ्गुलीवलनैः स्वरान् ॥ ७९ ॥
अन्नर्मादवसम्पन्नः प्राज्यैराज्यैश्च पायसैः ।
सूपैरपूपैर्दधिभिस्तत्र सन्तर्पिता जनाः ॥ ७६ ॥
जनानां भोजनेप्वाज्यवर्षमाकर्ण्य तत्तौ ।
षडब्धिमध्यमाज्याब्धिः स्वरक्षार्थ विवेश किम् ॥ ७७ ॥
दिशति क्षितिपे तस्मिन्नृत्विग्भ्यो यागदक्षिणाम् ।
दक्षिणा न दिगेकैव सर्वा अपि तथाभवन् ॥ ७८ ॥
 
भेंड
 
विसृज्य राज्यं ते तस्मिन्नशक्ताः परिपालने ।
तहत्तममितं वित्तमभजन्नापमित्यकम् ॥ ७९ ॥
 
तथाभवन् दक्षिणा जाताः कृत्स्नराज्यदानादित्यर्थः । S अपमित्यं याचितकं विनिमान-
लग्धम् ।'