जानकीपरिणयः /15
This page has not been fully proofread.
प्रथमः सर्गः ।
स कोसलेश्वरसुतां तनयां केकयस्य च ।
पुत्रीं च मगधेन्द्रस्य सपत्नीरकरोद् भुवः ॥ ५९ ॥
अन्याश्च वरसौजन्या धन्या राजन्यकन्यकाः ।
पर्यग्रहीत् स माधुर्यधुर्याः सौन्दर्यशालिनीः ॥ ६० ॥
धरणीधारणे तस्य मन्त्रिणोऽष्टौ महीपतेः ।
सहायभावमभजन भोगीन्द्रस्येव दिग्गजाः ॥ ६१ ॥
ऋषिदेवऋणान्मुक्तो ब्रह्मचर्येण यागतः ।
प्रजाभिधधनालाभाद् बद्धः पितृऋणेन सः ॥ ६२ ॥
पुत्रार्थं भूपतौ तस्मिन्नश्वमेधं चिकीर्षति ।
सुमन्त्रो मन्त्रितिलको मिथस्तमिदमब्रवीत् ॥ ६३ ॥
ऋश्यशृङ्गप्रभावात् ते भविष्यन्ति सुता इति ।
सनत्कुमारो भगवानब्रवीत् सुरसंसद ॥ ६४ ॥
राजन्नागमनात् तस्य सन्तानं ते भविष्यति ।
पुराङ्गविषयस्येव वर्ष सन्तापवारणम् ॥ ६५ ॥
इति तद्भाषितं श्रुत्वा रोमपादान्तिकं गतः ।
अयोध्यामानयामास शान्ताकान्तं धरापतिः ॥ ६६ ॥
यज्ञशाला विशालाभूत् सरयूवाहिनीतटे ।
सम्भाराः सम्भृता मुक्तो हयश्च सपुरोहितः ॥ ६७ ॥
ऋश्यशृङ्गं पुरस्कृत्य वसिष्ठप्रमुखा द्विजाः ।
प्रावर्तन्त ऋतुं कर्तुं तुरङ्गे पुनरागते ॥ ६८ ॥
बिभ्रञ्चल शिखाजिह्वां धूमश्मश्रुचयं दधत् ।
बुभोज भव्यहव्यानि बर्हिर्मुखमुखं शिखी ॥ ६९ ॥