This page has not been fully proofread.


 
जानकीपरिणये
 
उदिते सति यद्वाहाशौर्यसूर्ये रणाङ्गणे ।
अजायत गतच्छायं तत्क्षणाद् राजमण्डलम् ॥ ४८ ॥
प्रतापवन्तं सद्धेतिं तरसाहितपावकम् ।
महाहव विधिज्ञो यश्चके प्राज्यसमिद्धुतम् ॥ ४९ ॥
हता येन स्थिताः स्वर्गे द्विषो यं वीक्ष्य धन्विनम् ।
असुरान् हन्तुमायान्तं त्रासं तत्रापि भेजिरे ॥ ५० ॥
असेवन्त हता येन देवभूयं गता द्विषः ।
हरेरर्धासनस्थं यं स्वपुत्राणां हितैषिणः ॥ ५१ ॥
अहर्निशं दानजलैररिक्तो यत्करोऽभवत् ।
तइर्तिरेखामत्स्यानामन्यथा जीवनं कुतः ॥ ५२ ॥
पर्वताः सागरत्वेन पर्वतत्वेन सागराः ।
 
यस्योन्नतत्वे गाम्भीर्ये चिन्तिते सति निश्चिताः ॥ ५३ ॥
पञ्चशाखान्वितं यस्य भुजाकल्पकभूरुहम् ।
अधिरूढा क्षितिलता फलानि समदर्शयत् ॥ ५४ ॥
यः पुमर्थानतन्द्रीको यथाकालमसेवत ।
सर्गरक्षान्तसमयेष्वात्मा मायागुणानिव ॥ ५५ ॥
एकमेव जयन् कामं क्रोधेनाभूज्जितो हरः ।
जिगाय यः काममुखान् वीरः षडपि विद्विषः ॥ ५६ ॥
साम्नोऽसाध्येष्वभूद् दानमसाध्येषु तयोर्भिदा ।
तेषामसाध्येषु पुनः प्रयुक्तं तेन दण्डनम् ॥ ५७ ॥
अजयद् द्विषतः स्कन्दः शक्तिमेकां वहन्नपि ।
किमद्भुतं जिगायेति यः शक्तित्रयवान् द्विषः ॥ ५८ ॥