This page has not been fully proofread.

प्रथमः सर्गः ।
 
सकुण्डलैः कञ्चुकिभिः स्फुरन्मणिविभूषितैः ।
भुजङ्गैर्भोगसंपन्नैर्भाति भोगवतीव या ॥ ३८ ॥
सदानिमिषसंपर्कधन्यैरुत्कलिकान्वितैः ।
भासतेऽप्सरसां सङ्घैः पुरन्दरपुरीव या ॥ ३९ ॥
यत्र कालागुरुभवैधूपैरुञ्चलितैः सदा ।
आहितां श्यामतामभ्रमद्यापि न विमुञ्चति ॥ ४० ॥
प्रभा दिक्षु प्रसर्पन्तीयंत्र हीराइमवेश्मनाम् ।
चञ्च्चञ्चलैजिघृक्षन्ते चकोराश्चन्द्रिकाधिया ॥ ४१ ॥
दैवज्ञैरपि दुर्ज्ञेयमर्केन्दूडुपथान्तरम् ।
उच्चसौधाग्रमारूढा निश्चिन्वन्ति यदङ्गनाः ॥ ४२ ॥
यज्जनालोकनवतां लुब्धः कल्पकपादपः ।
पामरो वासवगुरुर्दरिद्रो निधिनायकः ॥ ४३ ॥
नूतनोऽपि जनो गन्धान् घायं घ्रायं प्रसर्पतः ।
यत्र गन्धापणं याति यथालिः पुष्पितं द्रुमम् ॥ ४४ ॥
शङ्के यत्सिन्धुरेन्द्राणां पुलाका* नीलनीरदाः ।
अतो मरुद्भिनितास्ते भ्रमन्ति हरिदन्तरे ॥ ४५ ॥
अध्यतिष्ठदयोध्यां तां राजा दशरथः पुरीम् ।
अलकामिव यक्षेशो मघवेवामरावतीम् ॥ ४६ ॥
क्षिप्तक्षीराब्धिकल्लोलशरच्चन्द्रमरीचिभिः ।
यत्कीर्तिपूरकर्पूरैरासीदामोदितं जगत् ॥ ४७ ॥
 
+ पुलाकास्तुच्छधान्यानि बुसप्रायाणि पवनहार्याणि । सारधान्यस्थानीयत्वं तु गजानी
 
गम्यम् ।