जानकीपरिणयः /12
This page has not been fully proofread.
जानकीपरिणये
गन्धवाहाः स्वनामार्धे हित्वा वाहाश्वकासति ।
पुरस्कुर्वन्ति तैरत्यक्तं यत्र गन्धपई गजाः ॥ २८ ॥
यदाराममा भान्ति व्याधूता मलयानिलैः ।
उदङ्मुखाश्चैत्ररथं जेतुं संस्थिता इव ॥ २९ ॥
यत्र यूनोः सदाश्लेषाद् व्यक्तेः कस्याः कुचाविमौ ।
इति संशयमुग्णर्तुरसोढालिङ्गनोऽहरत् ॥ ३० ॥
यत्र कान्ता रतिश्रान्ताः सौधेपूच्चेष्वनुक्षपम् ।
शयानाश्चन्द्रिकां सान्द्रां सेवन्तेऽनन्यसेविताम् ॥ ३१ ॥
स्थिरा यत्र वसन्तीति श्रियोऽतिचपला अपि ।
विद्युतो वनिता भूत्वा वर्तन्ते गतचापलाः ॥ ३२ ॥
क्षौमाणि सुभ्रुवां नानारत्नवेश्मजरश्मिभिः ।
लिप्तानि चित्रपटवद् भासन्ते यत्र सन्ततम् ॥ ३३ ॥
आतपेऽर्कशिलारमन्ते विन्यस्तेऽग्निं विमुञ्चति ।
यत्पुरन्ध्रीजनास्तस्मिन् पचन्त्यन्नमनिन्धनम् ॥ ३४ ॥
मरुताभिहता स्वर्गगङ्गाम्भःकणवर्षिणा ।
शीतार्तेवोच्चसौधस्था पताका यत्र कम्पते ॥ ३५ ॥
सौधेषु यत्र नारीणां वीक्ष्य पुम्भावसंभ्रमान् ।
अभ्यस्यन्तीव तटितस्तानद्यापि चलाचलाः ॥ ३६ ॥
दिवानिशं चुम्ब्यमानाः कान्तैर्यत्प्रमदाधराः ।
हेमन्तसमये यान्ति विश्रान्तिमुदितव्रणाः ॥ ३७ ॥
* सूर्यकान्तचुल्ल्याम् ।