This page has not been fully proofread.

जानकीपरिणये
 
१०८
 
इत्थं सद्गुणरञ्जिताखिलजनं गाम्भीर्यधैर्यक्षमा-
शौर्योत्साहविनीतिशान्तिकरुणाविश्राणनैकाश्रयम् ।
रामं सत्वरमन्ययेव चकमे विश्वंभराकन्यया
 
संयोक्तुं दिवसे शुभे दशरथस्तं यौवराज्यश्रिया ॥ ६६ ॥
यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः
ख्यातं चक्रकविं सतीसमुद्यैः सम्मानिताम्बाभिधा ।
यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलं
काव्ये तस्य हि जानकीपरिणये सर्गोऽजनिष्टाष्टमः ॥ ६७ ॥
दृप्यन्मन्मथगाढकर्षणदलत्पर्वेक्षुचापक्षर-
त्सारस्फाररसोर्मिनिर्मितरणक्रीडा यदीया गिरः ।
 
यत्कार्त्तिः शरदिन्दुसुन्दरमहःसन्दोहसन्देहदा
सोऽयं चक्रकविर्विभाति विनयी सौजन्यसम्पन्निधिः ॥ ६८ ॥
 
गुरूणां चरणाम्भोजं यस्यां दिशि विराजते ।
तस्यै दिशे नमस्कुर्मः कायेन मनसा गिरा ॥ ६९ ॥
 
इति जानकीपरिणये
अष्टमः सर्गः ।
 
समाप्तश्चार्य ग्रन्थः ।
 
शुभं भूयात् ।