This page has not been fully proofread.

अष्टमः सर्गः ।
 
सन्ततावपि न तस्य यथा स्याद्
 
दुर्गतिः प्रभवभूर्दुरितानाम् ॥ ६० ॥
 
तादृशेन भुजविक्रमभूम्ना
 
केवलं न जमदग्निकुमारम् ।
श्लाघनीयतरया पितृभक्त्या
 
प्यत्यशेत रघुवंशवतंसः ॥ ६१ ॥
 
निष्ठुराक्षरमलीकमसारं
 
ग्राम्यमुद्धततरं कृपणं वा ।
 
उज्झितार्जवमधर्म्यमयुक्तं
 
व्याजहार न वचो रघुवीरः ॥ ६२ ॥
 
वीक्षणेन सदयेन सुधौघं
 
वर्षतेव वचसा मनसा च ।
 
प्रेमभूमभरितेन रघूणां
 
नायको निखिलचित्तमहार्षीत् ॥ ६३ ॥
 
राजसूनुषु चतुर्ष्वपि रामः
 
सम्मतोऽजनि जनस्य विशेषात् ।
 
एक एव हि विशिष्य पुमर्थे -
 
ष्वर्चितो भवति मोक्षपदार्थः ॥ ६४ ॥
 
जानकीपरिणयोत्सवशंसि-
ग्रन्थनिर्वहणसर्वधुरीणम् ।
 
हर्षितं समतनोत् कविचक्रं
 
राघवः प्रवितरन् सभीष्टम् ॥ ६५ ॥
 
§ कविचक्र कविसमूहम्, अथच प्रकृतकाव्यकर्तारं चक्राख्यं कविम् ।
 
१०३