जानकीपरिणयः /114
This page has not been fully proofread.
जानकीपरिणये
रूपधेयमधुरास्तरुणिम्ना
भूषिता दशरथस्य कुमाराः ।
ताभिरुज्ज्वलतराभिरजस्रं
सङ्गताः सुखमभुञ्जत भोगान् ॥ ५५ ॥
क्रीडति स्म मणिधाम्नि कदाचि-
न्मन्दिरोपवनसीम्नि कदाचित् ।
केलिभूमिधरमूर्ध्नि कदाचित्
सीतया सह सुखेन स रामः ॥ ५६ ॥
तं विना क्षणमुवास न सीता
तां विना स च नरेन्द्रकुमारः ।
कौमुदी विरहिता हिमभासा
किं वसेद् विरहितः स तया वा ॥ ५७ ॥
भक्तिमान् गुरुषु बन्धुजनेषु
प्रीतिमांश्च कृपणेषु कृपावान् ।
रोषवान् प्रतिभटेषु रणेषू-
त्साहवान् समजनिष्ट स वीरः ॥ ५८ ॥
स स्मरन्नुपकृतिं लघुमेकां
नास्मरद् गुरुतरानपकारान् ।
ईरितासु परुषोक्तिषु रुष्टै-
राह नोत्तरमपि प्रतिभावान् ॥ ५९ ॥
राघवः प्रदिशति स्म धनौघं
भूरिशः खलु तथार्थिजनाय ।
रूपधेयमधुरास्तरुणिम्ना
भूषिता दशरथस्य कुमाराः ।
ताभिरुज्ज्वलतराभिरजस्रं
सङ्गताः सुखमभुञ्जत भोगान् ॥ ५५ ॥
क्रीडति स्म मणिधाम्नि कदाचि-
न्मन्दिरोपवनसीम्नि कदाचित् ।
केलिभूमिधरमूर्ध्नि कदाचित्
सीतया सह सुखेन स रामः ॥ ५६ ॥
तं विना क्षणमुवास न सीता
तां विना स च नरेन्द्रकुमारः ।
कौमुदी विरहिता हिमभासा
किं वसेद् विरहितः स तया वा ॥ ५७ ॥
भक्तिमान् गुरुषु बन्धुजनेषु
प्रीतिमांश्च कृपणेषु कृपावान् ।
रोषवान् प्रतिभटेषु रणेषू-
त्साहवान् समजनिष्ट स वीरः ॥ ५८ ॥
स स्मरन्नुपकृतिं लघुमेकां
नास्मरद् गुरुतरानपकारान् ।
ईरितासु परुषोक्तिषु रुष्टै-
राह नोत्तरमपि प्रतिभावान् ॥ ५९ ॥
राघवः प्रदिशति स्म धनौघं
भूरिशः खलु तथार्थिजनाय ।