This page has not been fully proofread.

अष्टमः सर्गः ।
 
शान्तिमान् भव समस्तजनेषु
 
त्वं दयां कलय गच्छ यथेच्छम् ॥ ४९ ॥
 
व्याहरन्निति ननाम स रामो
राममाप्तशममुज्झितदर्पम् ।
 
उद्धतेष्वनुचितः प्रणिपातो
 
युक्ततां व्रजति शान्तिमितेषु ॥ ५० ॥
 
राघवेण विहितानुमतिः सन्
भार्गवो द्रुतमवाप महेन्द्रम् ।
 
स्वं पुरं दशरथोऽपि सदारै-
दर्दारकैरनुगतो भजति स्म ॥ ५१ ॥
 
तोरणावलिविराजितमम्भ-
स्सिक्तराजपथमुच्चपताकम् ।
 
तत् पुरं जनघनं परिपश्य-
नाससाद भवनं क्षितिपालः ॥ ५२ ॥
 
राघवश्व भरतश्च सुमित्रा-
नन्दनौ च पितरं प्रणिपत्य ।
 
शासनात् तदनु तस्य सदारा
 
भेजिरे निजनिजावसथानि ॥ ५३ ॥
 
मैथिलस्य च कुशध्वजनाम्नः
 
कन्यकाः क्षितिभुजोरुभयोस्ताः ।
लालनाभिरनिशं दयिताना-
मस्मरन् न जनकौ मनसापि ॥ ५४ ॥