This page has not been fully proofread.

१०४
 
जानकीपरिणये
 
दुर्निरीक्षतरतां प्रतिपेदे
राघवोऽधिगतभार्गवतेजाः ।
 
सायमग्निरिव भानुसकाशात्
सत्वरापतितनिर्भरधामा ॥ ४४ ॥
 
मुक्तदर्पभरमुज्झितयुद्धो-
त्साहमस्तमितभीषणरोषम् ।
 
क्षीणतेजसमुपागतदैन्यं
 
वीक्ष्य राममवदद् रघुवीरः ॥ ४५ ॥
 
आयुधानि विमुखानि रघूणां
ब्राह्मणेषु यदतस्तरसा ते
 
1
 
लुम्पतु त्रिदिववर्त्म गतिं वा
 
संहितो धनुषि सायक एषः ॥ ४६ ॥
 
शंसतीति रघुवंशवतंसे
 
व्याजहार जमदनिकुमारः।
 
अध्वरार्जितमनेन जहि त्वं
 
नाकलोकमिषुणा न गतिं मे ॥ ४७ ॥
 
FOR
 
दीनदीन इति शंसति तस्मि-
नुज्झितो दशरथस्य सुतेन ।
मार्गणो झटिति भार्गवतादृक्-
स्वर्गमार्गविपुलार्गलमासीत् ॥ ४८ ॥
 
किं फलं प्रहरणग्रहणेन
 
ब्राह्मणस्य दुरहड्रियया वा ।