This page has not been fully proofread.

१०२
 
जानकीपरिणये
 
पिता ते
 
रक्षितोऽजनि मदीयकुठारात् ।
 
विस्रसौषधिबलेन
 
ओषधिं नतिमयीं कलयंस्त्वं
 
प्राणरक्षणविधिं रचयास्मात् ॥ ३३ ॥
 
किं मया समरमाचरसि त्वं
 
किं तनोषि धनुरेतदधिज्यम् ।
 
किं करोषि शिरसा प्रणिपातं
 
तत् कुरु त्रिषु यदिष्टतमं ते ॥ ३४ ॥
 
एवमूचुषि मुनौ भृगुसूनौ
रोषशोणतरलोचनकोणे ।
 
राघवस्य हृदयं न जगाम
 
क्षोभमीषदपि सिन्धुगभीरम् ॥ ३५ ॥
 
सङ्गरे सति भवेद् द्विजहिंसा
 
कीर्त्तिहानिरहितप्रणिपाते ।
नात्र दोषकणिकेति स चापा-
रोपणे निहितधीर्निजगाद ॥ ३६ ॥
 
क्षत्रवंशदलनार्जुनबाहा-
खण्डनादि वदता निजशौर्यम् ।
 
रैणुकेय ! जननीवधशौर्य
 
विस्मृतं कथमिदं भवताभूत् ॥ ३७॥
 
क्षिप्तमायुधमिदं पितृघाती-
त्यर्जुने सरभसं भवता चेत ।