This page has not been fully proofread.

प्रथमः सर्गः ।
 
चकार प्रतिसृष्टिं किं वाचोऽपि कुशिकात्मजः ।
अनिशं दुष्कविमुखे वाग्रूपा वर्तते हि सा ॥ १८ ॥
निर्गता दुष्कविमुखाद् वाणी दोषकलङ्किता ।
विशदीक्रियते भूयः सभ्यानां हसितैः सितैः ॥ १९ ॥
चिकीर्षति प्रबन्धं यो विना व्याकरणे श्रमम् ।
स शक्नोति स्रजं बन्धुं पुष्पसम्पादनं विना ॥ २० ॥
भ्रूविक्रियां शिरःकम्पं सस्मितं च स्तवं मुहुः ।
अज्ञः करोति किं ब्रूमः कवेः सूक्तिप्वभिज्ञवत् ॥ २१ ॥
प्राणान् जनानां हरतः प्रबन्धैः परुषैर्निजैः ।
कविपाशानहं मन्ये कालपाशान् दुरासदान् ॥ २२ ॥
कविम्मन्यपुरोभागिशुष्कतार्किकशार्करे ।
जगत्यस्मिन् मृदुपदा कथं वाणि! चरिष्यसि ॥ २३ ॥
वाल्मीकेरिव वाचं मे वाचमङ्गीकरिष्यति ।
रामः क्षौममिवावस्त कदाचिद् वल्कलं न किम् ॥ २४ ॥
लसद्रामचरित्रा मे वागपि स्यात् सतां मुदे ।
धृतमुक्ताफला शुक्तिर्न किमाद्रियते जनैः ॥ २५ ॥
अस्ति भूषा भुवो गन्धहस्तिवाजिविराजिता ।
अयोध्या नाम नगरी श्रियो नर्तनरङ्गभूः ॥ २६ ॥
चन्द्राश्मसालगलितैनीरैज्योत्स्त्रीषु पूरिता ।
प्रतीक्षते यत्परिखा न घनान् न च सारिणीः ॥ २७ ॥
 
+ कुल्या: ।