This page has not been fully proofread.

अष्टमः सर्गः ।
 
अजसा क्षितिभुजामपि वंशान्
निर्बिभेद समरे परशुर्मे ॥ २७ ॥
 
अस्त्रमन्त्रमखिलं भवते यो
 
बालिशाय तरसोपदिदेश ।
 
लोकविप्रियकरं बत विश्वा-
मित्रमाहुरत एव जनास्तम् ॥ २८ ॥
 
यच्चिरादपरिशीलनतोऽभू-
निष्पतद्बुणगणव्रणरेणु ।
 
तस्य रुद्रधनुषो मथनात् ते
 
क्षत्रियार्भक ! कियानवलेपः ॥ २९ ॥
 
एकविंशतिमहीपतिवंशो-
न्मूलनेन शमितां भुजकण्डूम् ।
 
उत्थितां पुनरिमां रघुवंश-
च्छेदनात् प्रशमितां कलयामि ॥ ३० ॥
 
ताटकाहरशराससुबाहु-
ध्वंसनात् समुदितं हृदये ते ।
 
अस्मदीयपरशुः स्वयमद्यो-
न्मूलयिष्यति रयादवलेपम् ॥ ३१ ॥
 
पौरुषोद्भटभुजेन मया चेद्
 
द्वन्द्वयुद्धमधुना कलयेथाः ।
क्षत्रदारक ! यशो भवतः स्या-
दस्तु संयति जयोऽपजयो वा ॥ ३२ ॥
 
१०१