This page has not been fully proofread.

१००
 
जानकीपरिणय
 
आगते सति मुनौ क्षितिपाल-
स्त्रासकम्पमभजन्न तु रामः ।
कम्पते क्षितिरुहः पवमाने
 
वाति तिष्ठति हि पूर्ववद्रिः ॥ २२ ॥
 
सञ्चरन्तमिव सद्गुणराशिं
मूर्तिमन्तमिव कीर्तिपदार्थम् ।
 
अक्षिलक्षितमिवार्जवसारं
 
चेतनान्वितमिवाखिलधर्मम् ॥ २३ ॥
 
पश्यति स्म जमदग्निकुमारः
 
कोसलेन्द्रसुतमेकनिकेतम् ।
 
शौर्यधैर्यविनयप्रियवाद-
क्षान्तिशान्तिनयसत्ययानाम् ॥ २४ ॥
 
(युग्मम् )
 
भीतिगन्धरहितं गतशङ्कं
 
मुक्तविक्रियमनाकुलचित्तम् ।
 
अब्रवीद् रघुपतिं यमदंष्ट्रा-
कारघोरपरशुभृगुसूनुः ॥ २५ ॥
 
क्षत्रडिम्भ ! जरठो जनकरते
 
मुक्त एष निरपत्य इति प्राक् ।
सूदितो यदि तदैव कुतस्त्वं
 
तत् कुतो हरधनुर्दलनं वा ॥ २६ ॥
 
हेहयक्षितिभुजो भुजवंशान्
 
केवलं न खलु घोरतरोऽसौ ।