This page has not been fully proofread.

अष्टमः सर्गः ।
 
आशुगं दधदवामकरेयः
क्रूरताजितयुगान्तकृतान्तः ॥ १६ ॥
उज्झितं मघवता कुलिशं यत्-
पक्षमात्रदलनं किल चक्रे ।
 
आयुधं दलयति स्म यदीयं
कौञ्चभूधरमुद्द्व्रतरं तम् ॥ १७ ॥
 
तं निरीक्ष्य तरसा मुनिमारा-
दुग्रविग्रहमुदकुठारम् ।
 
तस्य भूशतमखस्य दुरन्ता
 
प्रादुरास किल चेतसि चिन्ता ॥ १८ ॥
 
यस्य निष्ठुरकुठारविलूना
 
क्षत्रजातिरखिला बहुवारान् । ।
 
न प्ररोहति मनागधुनापि
 
भ्रूणहा क पुनरापतितोऽसौ ॥ १९ ॥
 
उद्धतः परशुपावकदुग्ध-
क्षत्रसन्ततिरमर्षभरेण ।
 
पापमेष कलयिष्यति किं वा
 
शैशवाविरहितेषु सुतेषु ॥ २० ॥
 
चिन्तयन्तमिति भूपमपश्य-
नर्ध्यमर्ध्यमिति तं कथयन्तम् ।
 
राममेव भृगुसूनुरयासी-
दाहितेश्वरशरासनिरासम् ॥ २१ ॥