This page has not been fully proofread.

१८
 

 
जानकीपरिणये
 
योऽलुनात् परशुना युधि वारान्
सन्ततिं क्षितिभुजामुपविंशान् ॥ ११ ॥
 
रेणुकावधभुवा दुरितानां
 
मार्जनाय किल यस्य कुठारः ।
 
भूभुजां गलगलद्रुधिराम्भो-
निर्झरेष्वविरताप्लवनोऽभूत् ॥ १२ ॥
 
जन्मभूर्जगति यः पितृभक्तेः
 
साहसस्य परमस्य निधिर्यः ।
 
पात्रमिन्दुमहसां यशसां यो
 
विक्रमस्य च विहारगृहं यः ॥ १३ ॥
 
^सिन्धुबन्धुवलयेन परीतां
 
काश्यपाय दिशति स्म भुवं यः ।
 
किञ्च खण्डपरशोरुपकण्ठात्
 
प्राप चापनिगमं निखिलं यः ॥ १४ ॥
 
वल्कलं वपुषि बिभ्रदजिह्म-
ब्रह्मचर्यनिधिरुज्ज्वलतेजाः ।
 
क्षत्रगात्ररुधिरेण पितॄणां
 
तर्पणं कलयति स्म पुरा यः ॥ १५ ॥
 
स्कन्धसीम्नि परशुं शितधारं
 
दक्षिणेतरकरे च शरासम् ।
 
मिन्धुबन्धूनां समुद्राणां वलयेन ।