This page has not been fully proofread.

अष्टमः सर्गः ।
 
अन्तरा प्रतिभयं परिवेषं
 
क्षीणदीधितिरलक्ष्यत भानुः ।
 
केतुनेव परुषेण समन्ताद्
 
वेष्टितः सरभसग्रसनाय ॥ ६ ॥
 
तर्पयन्तमवनीपतिमांसै-
वींक्ष्य भार्गवमिवागतमारात् ।
सङ्कलं सरभसापतिताभिः
 
श्येनसंहतिभिरम्बरमासीत् ॥ ७ ॥
 
तिष्ठति स्म खलु यत्र विवस्वान्
दिङ्मुखं तदभिपूरितमुच्चैः ।
भैरवैर्झटिति फेरवयूथ-
कन्दितैः समभवत् प्लुतरूपैः ॥ ८ ॥
 
इत्थमुत्थितमुदीक्ष्य समन्ताद्
दुर्निमित्तशतमाकुलचित्तम् ।
 
पार्थिवं न विपदस्ति दुरन्ता
 
मुञ्च शोकमिति तं गुरुरूचे ॥ ९ ॥
 
अग्रतोऽथ विकटञ्जुकुटीकः
 
प्रादुरास धृतघोरशरासः ।
 
भार्गवः परुषरोषकठोरः
 
क्षत्रियक्षतिपटिष्ठकुठारः ॥ १० ॥
 
गर्जदर्जुनभुजावनराजि-
ध्वंसदावदहनीभवदोजाः ।