This page has not been fully proofread.

अथ अष्टमः सर्गः ।
 
आदरादनुजगाम सबन्धु-
मैथिलो दशरथं पथि यान्तम् ।
 
व्योमसीनि वलमानमिवाग्रे
 
गन्धवाहनिवहं घनसङ्घः ॥ १ ॥
 
बन्धुवत्सलतयाध्वनि दूरं
 
तं व्रजन्तमनुगम्य नरेन्द्रम् ।
मैथिलो निववृते तनयाभि-
वींक्षितोऽनुपदमश्रुमुखीभिः ॥ २ ॥
 
क्षोभयन् क्षितिपतेरथ सेना-
माजगाम पवनः प्रतिकूलः ।
 
यत्नमश्वनिवहस्य शताङ्गा-
कर्षणेषु विफलं विदधानः ॥ ३ ॥
 
तादृशप्रलयपावकनिर्य-
झीमधूममद्भूमहरेण ।
 
धूसराणि रजसा समभूवन्
 
दिङ्मुखानि तरसा निखिलानि ॥ ४ ॥
 
उत्थितं करभकायनिकाय-
च्छायमुग्रनिजरूपमुदग्रम् ।
 
अम्बरे जलमुचां निकुरुम्बं
 
स्फारघोरतरघोषविशेषम् ॥ ५ ॥