This page has not been fully proofread.

सप्तमः सर्गः
 

 
स्फीतानि गीतानि तदुत्सवर्द्धि-
शंसीनि पङ्केरुहलोचनानाम् ।
वधूवरौ कर्णपुटैः पिबन्तौ
 
दोलाविहारं सुखमन्वभूताम् ॥ ७६ ॥
 
आर्द्राक्षतारोपणकैतवेन
जनस्तमानर्च वधूसनाथम् ।
 
निशाचराणां कदनाय भूमौ
 
कान्तं रमायाः कलितावतारम् ॥ ७७ ॥
 
अथोपयेमे प्रथमः सुमित्रा
 
पुत्रः किलान्यां जनकस्य कन्याम् ।
तौ रामरामानुजयोः कनिष्ठौ
 
धन्ये कुमार्यौ च कुशध्वजस्य ॥ ७८ ॥
इत्थं विवाहविधिमात्मभुवां चतुर्णां
निर्वर्त्य दत्तमखिलं मिथिलाधिपेन ।
आदाय यौतकधनं विपुलं समं तै-
दौरान्वितैर्दशरथ: स्वपुरं प्रतस्थे ॥ ७९ ॥
यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः
ख्यातं चक्रकविं सतीसमुद्यैः संमानिताम्बाभिधा ।
सर्गोऽसौ मिथिलाधिराजतनुजापाणिग्रहे तन्महा-
काव्ये चारुणि पार्वतीपरिणयभ्रातर्यभूत् सप्तमः ॥ ८० ॥
 
इति जानकीपरिणये
 
सप्तमः सर्गः ।