This page has not been fully proofread.

सप्तमः सर्गः ।
 
तत्राबभौ हाटकपीठवर्ती
रामो विदेहेन्द्रसुतासमेतः ।
पार्श्वस्फुरत्कल्पकवल्लरीक-
स्तमालशाखीव सुमेरुसानौ ॥ ६५ ॥
 
हुतं वसिष्ठो विधिवद् विवाहे
 
हुताशनं साक्षिणमाकलय्य ।
व्रीडाजडान्योन्यकटाक्षमोक्षौ
संयोजयामास वधूवरौ तौ ॥ ६६ ॥
 
विदेहभूवासवजप्तकन्या-
प्रदानमन्त्रस्थित विष्णुशब्दः ।
 
रामे न भेजे किल गौणवृत्ति-
मर्थेष्वमुख्येषु हि तत्प्रवृत्तिः ॥ ६७ ॥
 
विभूषणं हेममयं ससूत्रं
 
धरासुतायाः स बबन्ध कण्ठे ।
दिनोदयो रश्मिनिबद्धमिन्द्र-
दिशो रवेर्बिम्बमिवोपकण्ठे ॥ ६८ ॥
 
करेण जग्राह करं तदीयं
 
रत्नाङ्गुलीयच्छविरञ्जितेन ।
रामो नलिन्या नलिनं प्रभाते
 
करेण भास्वानिव पाटलेन ॥ ६९ ॥
 
प्रदक्षिणप्रक्रमणानि वह्ने-
स्तन्वच्चकाशे मिथुनं तदुच्चैः ।
 
९३