This page has not been fully proofread.

९२
 
जानकीपरिणये
 
प्रवालमुक्ताफलपद्मराग-
नीलाश्मराजीखन्चितस्थलीकम् ।
कर्पूरधूलीकृतभक्तिरेखा-
समुल्लसच्चन्दनपङ्कलेपम् ॥ ६० ॥
 
विताननीलाम्बरलम्बमान-
विशुद्धमुक्तास्तबकाभिरामम् ।
 
हिरण्मयैः स्फाटिकसालभञ्जी-
विराजितैः स्तम्भचयैरुपेतम् ॥ ६१ ॥
 
स्रुग्भिः स्रुवैः काञ्चनपालिकाभिः
कुशैः समिद्भिः कुसुमैरुपेतम् ।
युक्तं च गन्धाक्षतलाजधूप-
प्रदीपसर्पिर्मधुपर्कपात्रैः ॥ ६२ ॥
 
अधिष्ठितं श्रोत्रियधोरणीभिः
 
स तं समासाद्य सुतैः समेतः ।
 
जग्राह पूजां जनकप्रणीतां
 
मुदा सखा जम्भनिसूदनस्य ॥ ६३ ॥
 
अरुन्धतीबन्धुमुखे समस्त-
ब्रह्मर्षिसङ्के प्रथमोपविष्टे ।
 
अथोपविष्टे जनकद्वये च
 
(चक्कलकम् )
 
रामः ससीतो निषसाद पीठे ॥ ६४ ॥