This page has not been fully proofread.

कलये कालिदासं तं कविराजिशिखामणिम् ।
यतन्तेऽद्यापि यन्मार्गमनुसतु कवीश्वराः ॥ ८ ॥
सिताजनिष्ट हसिता साक्षाद् द्राक्षा पराजिता ।
माघस्यानल्परसया वाचा मोचा च धिकृता ॥ ९ ॥
भोजो जयति भेजे यदर्शनात् कवितां जनः ।
श्रमं विनैव काव्येषु देवतोपासनं विना ॥ १० ॥
मधुजित्पदजातापि जिता भागीरथी ध्रुवम् ।
भारत्या भवभूतेस्तत् सभङ्गाद्यापि दृश्यते ॥ ११ ॥
सारस्वतसुधासारसन्तर्पित बुधावलिः ।
मुरारिसमतां धत्ते मुरारिः कविकेसरी ॥ १२ ॥
माधुर्यधुर्या बाणस्य भारती भासते यया ।
सम्भावितो 'नीरतया मरन्दो मन्दतां दधौ ॥ १३ ॥
श्रीलोकनाथं जनकं भजे बुधशिखामणिम् ।
असङ्ख्योऽपि जनो येन सङ्ख्यावानाहितोऽद्भुतम् ॥
श्रीराम वन्द्रं श्रीकण्ठभक्तं वन्दे तमग्रजम् ।
यत्सकाशान्मया सेयं संप्राप्ता साहितीसुधा ॥ १५ ॥
अग्रेसरं कवीन्द्राणामग्रजं तं पतञ्जलिम् ।
भजे यन्मुखचन्द्रस्य शारदा चन्द्रिकायते ॥ १६ ॥
गुणं खलजनः सूक्तेर्दोषत्वेनाभिपश्यति ।
 
सौरं ध्वान्ततयालोकमुलूको हि विलोकते ॥ १७ ॥
 
1 नीरतया जलत्वेन निर्गतरेफत्वेन च । § पण्डितः ससंख्यश्च ।