This page has not been fully proofread.

६६०
 
ईशाद्युपनिषत्सु -
 
[ अध्या० २
 
वासुदेव महत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबाल दर्शनजाबालीनां सा-
मवेदगतानां षोडशसंख्या कानामुपनिषदामाप्यायन्त्विति शान्तिः ॥ ४ ॥
प्रश्नमुण्डकमाण्डूक्याथर्वशिरोऽथर्वशिखा बृहज्जाबालनृसिंहतापनीनारदपरित्रा-
जसीताशर भमहानारायणरामरहस्य रामतापनीशाण्डिल्य परमहंस परिव्राज-
कानपूर्णा सूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवी भावनाब्रह्मजाबालगणपतिम-
 
हावाक्यगोपालतपनकृष्ण हयग्रीवदत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंश-
त्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ ५ ॥ मुमुक्षवः पुरुषाः
साधनचतुष्टयसंपन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्यगुणवन्त-
कुटिलं सर्वभूतहिते रतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽ-
ष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा
प्रारब्धक्षयाद्देहत्रयभङ्गं प्राप्योपाधिविनिर्मुक्तघटाकाशवत्परिपूर्णता विदेह-
मुक्तिः । सैव कैवल्यमुक्तिरिति । अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदा-
न्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञान-
मात्रेणा । न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥
 
इति मुक्तिकोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
 
तथा हैनं श्रीरामचन्द्र मारुतिः पप्रच्छ । केयं वा तत्सिद्धिः सिच्या वा
किं प्रयोजनमिति । स होवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व सुखदुःखादि-
लक्षणश्चित्तधर्मः क्लेशरूपत्वाद्वन्धो भवति । तन्निरोधनं जीवन्मुक्तिः । उपा-
विविनिर्मुक्तघटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । जीवन्मुक्ति विदेहमुक्त्यो-
रष्टोत्तरशतोपनिषदः प्रमाणम् । कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः
प्रयोजनं भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना पुत्रं
वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणा-
दिजनितसमाधिना जीवन्मुक्तत्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः ।
अत्र श्लोका भवन्ति - उच्छा शास्त्रितं चेति पौरुषं द्विविधं मतम् ।
तत्रोच्छा मनर्थाय परमार्थाय शाखितम् ॥ १ ॥ लोकवासनया जन्तोः
शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २ ॥ द्विविधो
वासनाव्यूहः शुभश्चैवाशुभश्च तौ । वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥ ३ ॥
 
१ मार्गेणोक्ता.